|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.163. अध्यायः 163
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना सोमदत्तवधः॥ 1 ॥ द्रोणयुधिष्ठिरयुद्धम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-163-0x(4707)(52393)
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह॥ 7-163-1(52394)
न ह्यहत्वा रणे शत्रुं सोमदत्तं महाबलम्।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम॥ 7-163-2(52395)
ततः सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान्।
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे॥ 7-163-3(52396)
तेऽवहन्युयुधानं तु मनोमारुतरंहसः।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्॥ 7-163-4(52397)
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे।
सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत॥ 7-163-5(52398)
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान्।
छादयामास शैनेयं जलदो भास्करं यथा॥ 7-163-6(52399)
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम्।
छादयामास बाणौघैः समन्ताद्भरतर्षभ॥ 7-163-7(52400)
सोमदत्तस्तुतं षष्ट्या विव्याधोरसि माधवम्।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः॥ 7-163-8(52401)
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशकौ॥ 7-163-9(52402)
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ।
परस्परमवेक्षेतां दहन्ताविव लोचनैः॥ 7-163-10(52403)
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ।
घोररूपौ हितावास्तां वृष्टिमन्ताविवाम्बुदौ॥ 7-163-11(52404)
शरसम्भिन्नगात्रौ तु सर्वतः शखलीकृतौ।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ॥ 7-163-12(52405)
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यराजताम्।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती॥ 7-163-13(52406)
सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ॥ 7-163-14(52407)
ततो युधि महारज सोमदत्तो महारथः।
अर्धचन्द्रेम चिच्छेद माधवस्य महद्धनुः॥ 7-163-15(52408)
अथैनं पञ्चविंशत्या सायकानां समार्पयत्।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः॥ 7-163-16(52409)
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम्।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत॥ 7-163-17(52410)
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव॥ 7-163-18(52411)
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम्।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्॥ 7-163-19(52412)
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः।
धनुश्छिच्छेद भल्लेन क्षुरप्रेण शितेन ह॥ 7-163-20(52413)
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम्।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्॥ 7-163-21(52414)
अथान्यद्धनुरादाय सोमदत्तो महारथः।
सात्यकिं छादयामास शरवृष्ट्या महाबलः॥ 7-163-22(52415)
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः।
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत्॥ 7-163-23(52416)
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम्।
सोमदत्तोप्यसम्भ्रान्तो भीममार्च्छच्छितैः शरैः॥ 7-163-24(52417)
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि॥ 7-163-25(52418)
तमापतन्तं वेगेन परिघं घोरदर्शनम्।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः॥ 7-163-26(52419)
स पपात द्विधा च्छिन्न आयसः परिघो महान्।
महीधरस्येव महच्छिखरं वज्रदारितम्॥ 7-163-27(52420)
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः॥ 7-163-28(52421)
ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान्।
समीपं प्रेषयामास प्रेतराजस्य भारत॥ 7-163-29(52422)
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः॥ 7-163-30(52423)
ततः शरं महाघोरं ज्वलन्तमिव पावकम्।
मुमोच सात्वतो राजन्स्वर्णपुङ्गं शिलाशितम्॥ 7-163-31(52424)
स विमुक्तो बलवता शैनेयेन शरोत्तमः।
घोरस्तस्योरसि विभो निपपाताशु भारत॥ 7-163-32(52425)
सोऽतिविद्धो महाराज सात्वतेन महारथः।
सोमदत्तो महाबाहुर्निपपात ममार च॥ 7-163-33(52426)
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः।
महता शरवर्षेण युयुधानमुपाद्रवन्॥ 7-163-34(52427)
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः।
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन्॥ 7-163-35(52428)
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम्।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः॥ 7-163-36(52429)
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम्।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः॥ 7-163-37(52430)
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः।
युधिष्ठिरोऽपि सङ्क्रुद्धः प्रतिविव्याध पञ्चभिः॥ 7-163-38(52431)
सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन्।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च॥ 7-163-39(52432)
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्॥ 7-163-40(52433)
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्॥ 7-163-41(52434)
ततो मुहूर्तं व्यथितः शरपातप्रपीडितः।
निषसाद रथोपस्थे द्रोणो भरतसत्तम॥ 7-163-42(52435)
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः।
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत्॥ 7-163-43(52436)
असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान्।
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत॥ 7-163-44(52437)
चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः।
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः।
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः॥ 7-163-45(52438)
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्॥ 7-163-46(52439)
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छ्रणु।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम॥ 7-163-47(52440)
यतते हि सदा द्रोणो ग्रहणे तव संयुगे।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह॥ 7-163-48(52441)
योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः॥ 7-163-49(52442)
राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः॥ 7-163-50(52443)
यावन्मात्रेण च मया सहायेन धनञ्जयः।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह॥ 7-163-51(52444)
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्॥ 7-163-52(52445)
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः॥ 7-163-53(52446)
रथघोषेण महता नादयन्वसुधातलम्।
पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश।
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जाग्रह पाण्डवः॥ 7-163-54(52447)
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे।
`नादयंस्तलघोषेण तव सैन्यानि मारिष'॥ ॥ 7-163-55(52448)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे त्रिषष्ट्यधिकशततमोऽध्यायः॥ 163 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-163-18 बाह्लीकस्य सोमदत्तस्य॥ 5-163-163 त्रिषष्ठ्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|